सर्व्वजया
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वजया, स्त्री, (सर्व्वेषां जयो यस्याः ।) स्त्रीक- र्त्तव्यमार्गशीर्षादिद्वादशमासनिष्पाद्यव्रतविशेषः । यथा । अथ सर्व्वजयाव्रतम् । सामान्योक्तं कृत्वा अद्य मार्गशीर्षे मासि अमुकपक्षे अमुकतिथौ विष्णुपदीसंक्रान्त्यामारभ्य वर्षपर्य्यन्तं अमुक- गोत्रा श्रीअमुकी द्वादशमासशाकादित्यागफल- प्राप्तिपूर्व्वकपुत्त्रपौत्त्राद्यैश्वर्य्यप्राप्त्युत्तरस्वर्गकामा मनोरथकामा वा गणेशादिहरगौरीपूजात्मक- सर्व्वजयाव्रतमहं करिष्ये । ततः सामान्योक्तं नवग्रहपूजान्तं कृत्वा अङ्गन्यासं प्रणवेन कृत्वा गौरीसहितहरं ध्यायेत् । “श्वेतवर्णं वृषारूढं व्यालयज्ञोपवीतिनम् । विभूतिभूषिताङ्गञ्च व्याघ्रचर्म्मधरं शुभम् ॥ पञ्चवक्त्रं दशभुजं जटिलं चन्द्रचूडकम् । मुकफलप्राप्तिकामा शिवदुर्गाप्रीतिकामा वा ब्राह्मणायाहं ददे इति वदेत् । इति कृत्य- चन्द्रिका ॥
