सामग्री पर जाएँ

सर्व्वज्ञः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्व्वज्ञः, पुं, (सर्व्वं जानातीति । ज्ञा + कः ।) शिवः । (यथा, महाभारते । १३ । १७ । ३९ । “सुवर्णरेताः सर्व्वज्ञः सुबीजो बीजवाहनः ॥”) बुद्धः । इत्यमरः । १ । १ । ३५ । ; १ । १ । १३ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ६१ । “सर्व्वदर्शी विमुक्तात्मा सर्व्वज्ञो ज्ञानमुत्तमम् ॥”) सकलज्ञातरि, त्रि ॥ (यथा, रघुह् । १० । २० । “सर्व्वज्ञस्त्वमविज्ञातः सर्व्वयोनिस्त्वमात्मभूः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सर्व्वज्ञः&oldid=175345" इत्यस्माद् प्रतिप्राप्तम्