सामग्री पर जाएँ

सर्व्वतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्व्वतः, व्य, चतुर्द्दिगभिव्याप्तिः । तत्पर्य्यायः । सम- न्ततः २ परितः ३ विश्वक् ४ । इत्यमरः । ३ । ४ । १३ ॥ (यथा, मुण्डकोपनिषदि । ३ । २ । ५ । “ते सर्व्वगं सर्व्वतः प्राप्य धीरा युक्तात्मानः सर्व्वमेवाविशन्ति ॥” * ॥ सर्व्व + तसिल् । सर्व्वः । यथा, मनुः । १ । ५ । “अप्रतर्कमविज्ञेयं प्रसुप्तमिव सर्व्वतः ॥” “प्रसुप्तमिव सर्व्वतः प्रथमार्थे तसिः । स्वकार्य्या- क्षममित्यर्थः ।” इति तट्टीकायां कुल्लूकः ॥ पञ्च- म्यास्तसिल् । सर्व्वस्मात् । सर्व्वेभ्यः । यथा मनुः । ४ । २४७ । “सर्व्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥” सप्तम्यास्तसिल् । सर्व्वस्मिन् । यथा, ऋतु- संहारे । १ । २३ । “भ्रमति गवययूथः सर्व्वतस्तोयमिच्छन् शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सर्व्वतः&oldid=175348" इत्यस्माद् प्रतिप्राप्तम्