सामग्री पर जाएँ

सर्व्वतोभद्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्व्वतोभद्रम्, क्ली, पुं, (सर्व्वतो भद्रमस्मादिति ।) ईश्वरगृहविशेषः । इत्यमरः । २ । २ । १० ॥ द्वारा- लिन्दादिभेदभिन्नाढ्यगृहम् । तस्य लक्षणमुप- न्यस्तं साञ्झेन यथा, -- “इत्युद्धववचो राजन् सर्व्वतोभद्रमच्युतम् । देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥”)

सर्व्वतोभद्रम्, क्ली, (सर्व्वतो भद्रमस्येति ।) वृषोत्- सर्गव्रतप्रतिष्ठादौ पूजाधारमण्डलविशेषः । यथा, शारदायाम् । “चतुरस्रे चतुःकोष्ठे कर्णसूत्रसमन्विते । चतुर्ष्वपि च कोष्ठेषु कोणसूत्रचतुष्टयम् ॥ मध्ये मध्ये यथा मत्सा भवेयुः पातयेत्तथा । पूर्व्वापरायते द्वे द्वे मन्त्री याम्योत्तरायते ॥ पातयेत्तेषु मत्स्येषु समं सूत्रचतुष्टयम् । पूर्व्ववत् कोणकोष्ठेषु कर्णसूत्राणि पातयेत् ॥ तद्वत् भूतेषु मत्स्येषु दद्यात् सूत्रचतुष्टयम् । ततः कोष्ठेषु मत्स्याः स्युस्तेषु सूत्राणि पातयेत् ॥ यावत् शतद्वयं मन्त्री षट्पञ्चाशत् पदान्यपि । तावत्तेनैव विधिना तत्र सूत्राणि पातयेत् ॥ षट्त्रिंशता पदैर्म्मध्ये लिखेत् पद्मं सुलक्षणम् । बहिःपङ्क्त्या भवेत् पीठं पङ्क्तियुग्मेन वीथिका ॥ द्वारशोभोपशोभास्रान् शिष्टाभ्यां परिकल्पयेत् । शास्त्रोक्तविधिना मन्त्री ततः पद्मं समालिखेत् ॥ पद्मक्षेत्रस्य संत्यज्य द्वादशांशं बहिः सुधीः । तन्मध्यं विभजेत् वृत्तैस्त्रिभिः समविभागतः ॥ आद्यं स्यात् कर्णिकास्थानं केशराणां द्वितीयकम् । तृतीयं पद्मपत्राणां मुक्तांशेन दलाग्रकम् ॥ बाह्यवृत्तान्तरालस्य मानेन विधिना सुधीः । निधाय केशराग्रेषु परितोऽर्द्धनिशाकरान् ॥ लिखित्वा सन्धिसंस्थानि तत्र सूत्राणि पातयेत् । दलाग्राणाञ्च यन्मानं तन्मानाद्वृत्तमालिखेत् ॥ तदन्तरालतन्मध्यसूत्रस्योभयतः सुधीः । आलिखेद्वाह्यहस्तेन दलाग्राणि समन्ततः ॥ दलमूलेषु युगशः केशराणि प्रकल्पयेत् । एतत् साधारणं प्रोक्तं पङ्कजं तन्त्रवेदिभिः ॥ पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् । अवशिष्टैः पदैर्व्विद्वान् पीठगात्राणि कारयेत् ॥ पदानि वीथिसंस्थानि मार्ज्जयेत् पङ्क्त्यभेदतः । सर्व्वतोभद्रमण्डलस्य रूपं यथा ।

सर्व्वतोभद्रः, पुं, (सर्व्वतो भद्रमस्येति ।) निम्ब- वृक्षः । इत्यमरः । २ । ४ । ६२ ॥ व्यूहविशेषः । इति तट्टीका ॥ विष्णुरथः । इति शब्दरत्नावली ॥ वंशः । इति शब्दचन्द्रिका ॥ चित्रकाव्यविशेषः । इति मेदिनी ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्व्वतोभद्र¦ mfn. (-द्रः-द्रा-द्रं) Every where auspicious. mn. (-द्रः-द्रं) A temple or palace of a square form, with an entrance opposed to each point of the compass. m. (-द्रः)
1. The Nimba-tree, (Melia azidarachta.)
2. The carriage of VISHN4U.
3. A bamboo.
4. A form of military array.
5. A square mystical diagram, to be painted on the cloth which on particular occasions covers a sort of altar erected to VISHN4U.
6. A kind of charade, in which the same word answers several questions.
7. A whimsical form of verse, so con- trived that the sams meanings and words occur, whether the line be read back-wards or forwards, or in several other directions. f. (-द्रा)
1. A tree, (Gmelina arborea.)
2. An actress or the wife of an actor or dancer, &c.
3. A sort of yam, (Dioscorea.) E. सर्व्वतस् on every side, भद्र auspicious.

"https://sa.wiktionary.org/w/index.php?title=सर्व्वतोभद्र&oldid=410598" इत्यस्माद् प्रतिप्राप्तम्