सर्व्वतोमुख
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वतोमुखम्, क्ली, (सर्व्वतो मुखमस्येति ।) जलम् । इत्यमरः । १ । १० । ४ ॥ आकाशम् । इति मेदिनी ॥ (समन्ततोमुखविशिष्टे, त्रि । यथा, महाभारते । १ । २११ । १२ । “एवं सर्व्वान् समादिश्य पूर्ब्बतीरे महोदधेः । क्रूरां मतिं समास्थाय जग्मतुः सर्व्वतोमुखौ ॥”)
सर्व्वतोमुखः, पुं, (सर्व्वतः मुखमस्येति ।) शिवः ॥ (यथा, महाभारते । १३ । १७ । ६६ । “सर्व्वकामवरश्चैव सर्व्वदः सर्व्वतोमुखः ॥”) ब्रह्मा । (यथा, कुमारे । २ । ३ । “अथ सर्व्वस्य धातारं ते सर्व्वे सर्व्वतोमुखम् । वागीशं वाग् भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥”) आत्मा । इति मेदिनी ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । १०० । “अमृताशोऽमृतवपुः सर्व्वज्ञः सर्व्वतोमुखः ॥”) ब्राह्मणः । इति शब्दरत्नावली ॥ स्वर्गः । इति शब्दमाला ॥ अग्निः । यथा, -- “सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः । विश्वरूपा महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वधृताग्निप्रणयनमन्त्रः ॥
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वतोमुख¦ n. (-खं)
1. Water.
2. Sky, heaven. m. (-खः)
1. S4IVA.
2. BRAHMA
4.
3. Soul, spirit.
4. A Bra4hman.
5. Swarga, the heaven of INDRA.
6. Agni. E. सर्व्वतस् on every side, मुख countenance.
