सर्व्वतोमुखः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वतोमुखः, पुं, (सर्व्वतः मुखमस्येति ।) शिवः ॥ (यथा, महाभारते । १३ । १७ । ६६ । “सर्व्वकामवरश्चैव सर्व्वदः सर्व्वतोमुखः ॥”) ब्रह्मा । (यथा, कुमारे । २ । ३ । “अथ सर्व्वस्य धातारं ते सर्व्वे सर्व्वतोमुखम् । वागीशं वाग् भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥”) आत्मा । इति मेदिनी ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । १०० । “अमृताशोऽमृतवपुः सर्व्वज्ञः सर्व्वतोमुखः ॥”) ब्राह्मणः । इति शब्दरत्नावली ॥ स्वर्गः । इति शब्दमाला ॥ अग्निः । यथा, -- “सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः । विश्वरूपा महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वधृताग्निप्रणयनमन्त्रः ॥
