सर्व्वत्रगः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वत्रगः, पुं, (सर्व्वत्र गच्छतीति । गम + “डप्रक- रणे सर्व्वत्रपन्नयोरुपसंख्यानम् ।” ३ । २ । ४८ । इत्यस्य वार्त्तिकोक्त्या डः ।) वायुः । सर्व्वत्रं- गामिनि, त्रि । इति वक्ष्यमानशब्ददर्शनात् ॥ (यथा, गीतायाम् । ९ । ६ । “यथाकाशस्थितो नित्यं वायुः सर्व्वत्रगो महान् । तथा सर्व्वाणि भूतानि मत्स्थानीत्युपधारय ॥”)
