सर्व्वरक्षणकवच
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वरक्षणकवचम्, क्ली, (सर्व्वरक्षणं सर्व्वरक्षाकर्रं कवचम् ।) कवचविशेषः । यथा, -- “शिशोः स्वस्त्ययनं चक्रुस्तूर्णं ब्राह्मणपुङ्गवाः । हस्तं दत्त्वा शिशोर्गात्रे पपाठ कवचं द्बिजः ॥ वदामि तत्ते विप्रेन्द्र कवचं सर्व्वरक्षणम् । तद्दत्तं मायया पूर्व्वं ब्रह्मणे नाभिपङ्कजे ॥ निद्रिते जगतां नाथे जले च जलशायिनि । भीताय स्तुतिकर्त्रे च मधुकैटभयोर्भयात् ॥ योगनिद्रोवाच । दूरीभूतं कुरु भयं भयं किन्ते मयि स्थिते । स्थितायां मयि च ब्रह्मन् सुखी तिष्ठ जगत्पते ॥ * श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः । श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः ॥ कर्णयुग्मञ्च कण्ठञ्च कपालं पातु माधवः । कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम् ॥ अधरौष्ठं हृषीकेशो दन्तपंक्तिं गदाग्रजः । रासेश्वरश्च रसनां तालुकं वामनो विभुः ॥ वक्षः पातु मुकुन्दस्ते जठरं पातु दैत्यहा । जनार्द्दनः पातु नाभिं पातु विष्णुश्च ते हनुम् ॥ नितम्बयुग्मं गुह्यञ्च पातु ते पुत्तषोत्तमः । जानुयुग्मं जानकीशः पातु ते सर्व्वदा विभुः ॥ हस्तयुग्मं नृसिंहश्च पातु सर्व्वत्र सङ्कटे । पादयुग्मं वराहश्च पातु ते कमलोद्भव ॥ ऊर्द्ध्वे नारायणः पातु अधस्तात् कमलापतिः । पातु पूर्व्वे च गोपालः पातु वह्नौ दशास्यहा ॥ वनमाली पातु याम्यां वैकुण्ठः पातु नैरृते । वारुणे वासुदेवश्च पातु ते जलजासन ! ॥ पातु ते सन्ततमजो वायव्यां विष्टरश्रवाः । उत्तरे च सदा पातु सोऽनन्तोऽनन्तकः स्वयम् ॥ ऐशान्यामीश्वरः पातु सर्व्वत्र पातु शत्रुजित् । जले स्थले चान्तरीक्षे निद्रायां पातु माधवः ॥ * इत्येवं कथितं ब्रह्मन् ! कवचं परमाद्भुतम् । कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया ॥ शुम्भेन सह संग्रामे निर्लक्षे घोरदारुणे । गगनस्थितो यः सद्यः प्राप्तिमात्रेण शक्तितः ॥ कवचस्य प्रसादेन धरण्यां पतितो मृतः । पूर्व्वं वर्षगतं खे च कृत्वा युद्धं भयावहम् ॥ मृते शुम्भे च गोविन्दः कृपालुर्गगने स्थितः । माल्यञ्च कवचं दत्त्वा गोलोकं स जगाम ह ॥ कल्पान्तरस्प वृत्तान्तं कृपया कथितं मुने । आभ्यां तव भयं नास्ति कवचस्य प्रभावतः ॥ कोटिशः कोटिशो नष्टा मया दृष्टाश्च सर्व्वशः । अहञ्च हरिणा सार्द्धं कल्पे कल्पे स्थिरा सदा ॥ इत्युक्त्रा कवचं दत्त्वा सान्तर्द्धानं चकार ह । निःशङ्को नाभिकमले तस्थौ स कमलोद्भवः ॥ * ॥ सुवर्णगुटिकायान्तु कृत्वेदं कवचं परम् । कण्ठे वा दक्षिणे बाहौ बध्नीयात् यः सुधीः सदा ॥ विषाग्निजलशत्रुभ्यो भयं तस्य न विद्यते । जले स्थले चान्तरीक्षे निद्रायां रक्षतीश्वरः ॥ संग्रामे वज्रपाते च विपत्तौ प्राणसङ्कटे । कवचस्मरणादेव सद्यो निःशङ्कतां व्रजेत् ॥ बद्ध्वेदं कवचं कण्ठे शङ्करस्त्रिपुरं पुरा । जघान लीलामात्रेण दुरन्तमसुरेश्वरम् ॥ बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा । सहस्रशीर्षा धृत्वेदं विश्वं धत्ते तिलं यथा ॥ आवां सनत्कुमारश्च धर्म्मः साक्षी च कर्म्मणाम् । कवचस्य प्रसादेन सर्व्वत्र जयिनो वयम् ॥ न्यस्य नन्दशिशोः कण्ठे जगाम कवचं द्विजः । आत्मनः कवचं कण्ठे दधार च हरिः स्वयम् ॥ प्रभावं कथितं सर्व्वं कवचस्य हरेस्तथा । अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने ! ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखणे १२ अध्यायः ॥
