सर्व्वसन्नहनार्थकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वसन्नहनार्थकः, पुं, (सर्व्वेषां सन्नहनस्य अर्थो यत्र ।) चतुरङ्गसैन्यसन्नाहः । तत्पर्य्यायः । सर्व्वाभिसारः २ सर्व्वौघः ३ । इत्यमरः ॥ सर्व्व- सन्नहनं अर्थोऽभिधेयमस्य । सर्व्वैरभिस्रियते- ऽभिमुखं गम्यतेऽनेन सर्व्वाभिसारः करणे घञ् । सर्व्वेषां ओधो वृन्दमत्र सर्व्वौघः । इति भरतः ॥
