सामग्री पर जाएँ

सर्व्वाङ्गसुन्दररसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सर्व्वाङ्गसुन्दररसः, पुं, (सर्व्वस्मिन् अङ्गे सुन्दरः । स एव रसः ।) औषधविशेषः । यथा, -- “रसगन्धकतुल्यांशो द्वौ भागौ टङ्गणस्य च । मौक्तिकं विद्रुमं शङ्खमवनीय समांशतः ॥ हेमभस्मार्द्धभागञ्च सर्व्वं खल्ले निधापयेत् । निम्बुद्रवस्य योगेन पिष्टिकां कारयेद्भिषक् ॥ पश्चात् गजपुटं दद्यात् शीतलञ्च समुद्धरेत् । हेमभस्मसमं तीक्ष्णं तीक्ष्णार्द्धो दरदो मतः ॥ एकीकृत्य समस्तानि सूक्ष्मचूर्णानि कारयेत् । ततः पूजां प्रकुर्व्वीत भक्षयेत् दिवसे शुभे ॥ सर्व्वाङ्गसुन्दरो ह्येष रोगराजनिकृन्तनः । वातपित्तज्वरे घोरे सन्निपाते सुदारुणे ॥ अर्शस्सु ग्रहणीरोगे मेगे गुल्मे भगन्दरे । निहन्ति वातजान्रोगान् श्लैष्मिकांश्च विशेषतः ॥ पिप्पलीमधुसंयुक्तं घृतयुक्तमथापि वा । भक्षयेत् पर्णखण्डेन सितया चार्द्रकेण वा ॥ गुडूचीसत्त्वसहितं प्रमेहे च विशेषतः । रसरत्नाकरप्रोक्तः सिद्धयोगो रसोत्तमः । राजिकाहिङ्गुतैलाम्लं लवणाढ्यं विवर्ज्जयेत् ॥” सर्व्वाङ्गसुन्दररसः । इति भैषज्यरत्नावली ॥ (यथा च । “रसगन्धकयोः कर्षं ग्राह्यमेकं सुशोधितम् । ततः कज्जलिकां कृत्वा मृदुपाकेन साधयेत् ॥ जातीफलं तथा कोषं लवङ्गारिष्टपत्रके । सिन्धुवारदलञ्चैव एलाबीजं तथैव च ॥ एषाञ्च कर्षमात्रेण तोयेनाथ विमर्द्दयेत् । मुक्तागृहे पुनः स्थाप्यं पुटपाकेन साधयेत् ॥ घनपङ्के बहिर्लिप्त्वा पुटमध्ये निधापयेत् । गुञ्जाष्टकप्रमाणेन प्रत्यहं भक्षयेन्नरः ॥ एतत् प्रोक्तं कुमाराणां रक्षणाय महौषधम् । ज्वरघ्नं दीपनञ्चैव बलवर्णप्रसाधनम् ॥ दुर्व्वारं ग्रहणीरोगं जयत्येव प्रवाहिकाम् । सूतिकाञ्च जयेदेतद्रक्तार्शो रक्तसम्भवम् ॥ पिशाचा दानवा दैत्या बालानां विघ्नकारकाः । यत्रौषधवरस्तिष्ठेत् तत्र सीमां न यान्ति ते ॥ बालानां गदयुक्तानां स्त्रीणाञ्चैव विशेषतः । महागन्धकमेतद्धि सर्व्वव्याधिनिसूदनम् ॥ विना पाकेन सर्व्वाङ्गसुन्दरोऽयं प्रकीर्त्तितः ॥” इति वैद्यकरसेन्द्रसारसंग्रहेऽतिसाराधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=सर्व्वाङ्गसुन्दररसः&oldid=175451" इत्यस्माद् प्रतिप्राप्तम्