सर्व्वार्थसाधिका
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वार्थसाधिका, स्त्री, (सर्व्वान् अर्थान् साधय- तीति । साधि + ण्वुल् । टापि अत इत्वम् ।) दुर्गा । यथा, मार्कण्डेये देवीमाहात्म्ये । “सर्व्वमङ्गलमङ्गल्ये शिवे सर्व्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥” सकलप्रयोजनसाधके, त्रि ॥
