सर्व्वौषधिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वौषधिः, पुं, (सर्व्वा ओषधयो यत्र ।) ओषधि- वर्गविशेषः । यथा, -- “कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः । मुराचन्दनकर्पूरैः मुस्तः सर्व्वौषधिः स्मृतः ॥” अत्र द्वितीयचन्दनपदं रक्तचन्दनपरम् ॥ इति राजनिर्घण्टः ॥ (क्वचित् स्त्रीलिङ्गेऽपि दृश्यते ॥)
