सर्व्वौषधिगणः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सर्व्वौषधिगणः, पुं, (सर्व्वौषधीनां गणः ।) मुराद्यो- षधिसमूहः । यथा, -- “मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम् । शटी चम्पकमुस्तञ्च सर्व्वौषधिगणः स्मृतः ॥” इति शब्दचन्द्रिका ॥ अन्यच्च । “हरिद्रा चन्दनं दार्व्वी मुस्तकं देवताडकम् । धन्याकं जीरकं मेथी धात्रीफलमुषीरकम् ॥ त्रिसुगन्धिः शटी गन्धमाद्री कर्पूरकं वचा । नखी मरुवकं कुष्ठं देवदारु विडङ्गकम् ॥ सरलं पद्मकाष्ठञ्च बालकं भद्रमुस्तकम् । ग्रन्थिकञ्च जटामांसी पलाशः शैलजं शमी ॥ अर्कर्च्चोगरुकं दूर्व्वा मुरा मांसी च कुङ्कुमम् । अपामार्गो मधुरिका विकासा खदिरः कुशा ॥ चातुर्ज्जातकसत्त्वोऽथोऽष्टवर्गो यज्ञडुम्बरः । नागेश्वरश्च कस्तूरी त्रिफला पक्वकेशरम् ॥ कक्कोलं धातकीपुष्पं त्रिकटु रेणुकं यवः । तिलाः कुन्दुरु ललुकं भार्गी गोरोचना वकः ॥ शुण्ठी पुष्पञ्च नहुनी श्रीफलं वंशलोचना । इन्दीवरं बहुसुता वकुलं मालतीदलम् ॥ इन्द्रबीजं कोकनदं जयन्ती गजपिप्पली । श्वेतापराजितापुष्पं सर्व्वौषधिगणः स्मृतः ॥” इति पाद्मोतरखण्डे १०७ अध्यायः ॥
