सामग्री पर जाएँ

सलिलाशय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सलिलाशयः, पुं, (सलिलानामाशयः ।) जला- शयः । तस्य वैकृत्ये दोषो यथा, -- गर्ग उवाच । “नगरादपसर्पन्ते समीपमुपयान्ति च । नद्यो ह्रदाः प्रस्रवणाः विरसाश्च भवन्ति ते । विवर्णं कलुषं तप्तं फेनवज्जन्तुसङ्कुलम् । क्षीरं स्नेहं सुरां रक्तं वहन्ते चाकुलोदकाः ॥ षण्मासाभ्यन्तरे तत्र परचक्रभयं भवेत् । जलाशया नदन्ते वा प्रज्वलन्ति कथञ्चन ॥ विमुञ्चन्ति तथा ब्रह्मन् ज्वालाधूमरजांसि च । अखाते वा जलोत्पत्तिः ससत्त्वा वा जलाशयाः ॥ संगीतशब्दा दृश्यन्ते जले मारभयं वदेत् । दिव्यमम्भोभयं सर्पिर्मधुना त्ववसेचनम् । जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥ मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विजभोजनार्थम् । गावश्च देयाः सितवस्त्रयुक्ता- स्तथोदफुम्भाः सलिलाघशान्त्यै ॥” इति मात्स्ये २०८ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सलिलाशय/ सलिला m. " -wwater-receptacle " , a pond , lake R. VarBr2S. BhP.

"https://sa.wiktionary.org/w/index.php?title=सलिलाशय&oldid=411370" इत्यस्माद् प्रतिप्राप्तम्