सवयास्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सवयाः, [स्] स्त्री, (समानं वयोम्याः । “ज्योति- र्जनपदेति ।” ६ । ३ । ८५ । इति समानस्य मः ।) समवयस्का । तत्पर्य्यायः । आलिः २ वयस्या ३ सखी ४ सहचरी ५ । इति जटाधरः ॥
सवयाः, [स्] पुं, (समानं वयो यस्य ।) वयस्यः । इत्यमरः । २ । ८ । १२ ॥ समानवयस्के, त्रि ॥ (यथा रघुः । ५ । ६५ । “सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥”)
