सव्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सव्यः, त्रि, (सू प्रेरणे + “माच्छाससिसूभ्यो यः ।” उणा० ४ । १०९ । इति यः ।) वामः । इत्य- मरः । ३ । १ । ८५ ॥ (यथा, मनुः । २ । ६३ । “उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्बिजः । सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥”) दक्षिणः । (यथा, अनर्घराघवे । ६ । ७० । “एकेन सव्यपाणिना विशिखमुत्खाय किमाह रावणः । साधु रे मनुष्यडिम्भ साधु ।” “सव्यपाणिना दक्षिणहस्तेन ।” इति तट्टीका ॥) प्रतिकूलः । इति हेमचन्द्रः ॥
सव्यः, पुं, (सूते विश्वमिति । सू प्रसवे + “माच्छा- ससिसूभ्यो यः ।” उणा० ४ । १०९ । इति यः ।) विष्णुः । इति शब्दमाला ॥
