सस्यकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सस्यकः, पुं, (सस्येन गुणेन परिजातः सम्बद्धः । सस्य + “सस्येन परिजातः ।” ५ । २ । ६८ । इति कन् ।) मणिभेदः । (यथा, बृहत्संहि- तायाम् । ७ । २० । “हेमकान्तिरथवा शुकवर्णः सस्यकेन मणिना सदृशो वा ॥”) असिः । इति मेदिनी ॥ “सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः ॥” इति हेमचन्द्रः ॥ (शालिः । साधुः । इति काशिका ॥)
