सहः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहः, पुं, (सहते इति । सह + पचाद्यच् ।) अग्रहायणमासः । (यथा, वाजसनेयसंहि- तायाम् । १४ । २७ । “सहश्च सहस्यश्च हैमन्तिकावृतू ॥” * ॥ महादेवः । इति महाभारतम् । १३ । १७ । १२६ ॥) क्षमे, त्रि । इति हेमचन्द्रः ॥ (यथा, महाभारते । १६ । ८ । १० । “गदापरिघशक्तीनां सहाः परिघबाहवः । त एरकाभिर्निहताः पश्य कालस्य पर्य्ययम् ॥”)
सहः, पुं, क्ली, (सहते इति । सह + अच् ।) बलम् । इति मेदिनी ॥
सहः, [स्] क्ली, (सहते इति । सह + “सर्व्व- धातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।) ज्योतिः । बलम् । इति शब्दरत्नावली ॥ (यथा, रघुः । ८ । ७ । “सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति । अचिरोपनतां स मेदिनीं नवपाणिग्रहणां बधूमिव ॥”)
