सहकारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहकारः, पुं, (सह युगपत् कारयति विक्षेपयति सौगन्धमिति । कृ + णिच् + अच् ।) अति- सौरभाम्रः । इत्यमरः । २ । ४ । ३३ ॥ (यथा, रघुः । ४ । ९ । “मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥”)
