सहचरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहचरः, पुं, स्त्री, (सह चरतीति । चर + अच् ।) पीतझिण्टी । नीलझिण्टी । इति रत्नमाला ॥ (यथा, सुश्रुते । १ । ३८ । “वीततरुसहचरद्वयदर्भवृक्षादनीति ॥”)
सहचरः, पुं, (सह चरतीति । चर + अच् ।) झिण्टी । वयस्यः । (यथा, कथासरित्सागरे । २४ । १३२ । “ततः सहचरैः साकं तस्यैवाशिश्रयद्गृहम् ॥”) प्रतिबन्धकः । इति हेमचन्द्रः ॥ अनुचरे, त्रि । इति मेदिनी ॥ (यथा, कुमारे । २ । ६४ । “सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्धा ॥”)
