सामग्री पर जाएँ

सहजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहजः, पुं, (सह जायते इति । जन + डः ।) सहोदरः । इत्यमरः । २ । ६ । ३४ ॥ निसर्गः । सहोत्थे, त्रि । इति मेदिनी ॥ (यथा, रघुः । ८ । ४३ । “विललाप स वाष्पगद्गदं सजहामप्यपहाय धीरताम् । अभितप्तमयोऽपि मार्द्दवं भजते कैव कथा शरीरिषु ॥”) जन्मलग्नात् तृतीयस्थानम् । यथा, -- “सुतमदननवान्त्ये पूर्णदृष्टिः सुरारि- र्युगलदशमराशौ दृष्टिपादत्रयार्हः । सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः स्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः ॥” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सहजः&oldid=175588" इत्यस्माद् प्रतिप्राप्तम्