सहजमित्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहजमित्रम्, क्ली, (सहजं मित्रम् ।) स्वाभाविक- सुहृत् । यथा, -- “अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः । क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥” अरिः शत्रुः । मित्रं सुहृत् । उभयविलक्षण उदासीनः । ते च त्रयस्त्रिविधाः । सहजाः कृत्रिमाः प्राकृताश्चेति । सहजं मित्रं भागि- नेयपैतृस्वस्रीयमातृस्वस्रीयादिः । इति मिता- क्षरायामाचाराध्याये १ अध्यायः ॥
