सहदेवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहदेवः, पुं, (पाण्डवविशेषः । इति मेदिनी ॥ स च पाण्डुराजस्य पञ्चमपुत्त्रः । माद्रीगर्भे अश्विनीकुमाराभ्यां जातः ॥ जरासन्धसुतः । स युधिष्ठिरसमकालीनो मगधेषु राजासीत् । इति श्रीभागवतम् ॥ (हर्य्यश्वनसुतः । यथा, हरिवंशे । २९ । ३ । “हर्य्यश्वनसुतो राजा सहदेवः प्रतापवान् । सहदेवस्य धर्म्मात्मा नदीन इति विश्रुतः ॥” सोमदत्तपुत्त्रः । यथा, तत्रैव । ३२ । ८० । “सोमदत्तस्य दायादः सहदेवो महायशाः । सहदेवसुतश्चापि सोमको नाम पार्थिवः ॥” देवैः सह वर्त्तमाने, त्रि । यथा, भागवते । ४ । २ । ८ । “श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः । साधूनां ब्रुवतो वृत्तं नाज्ञानान्नच मत्सरात् ॥”)
