सामग्री पर जाएँ

सहदेवीगणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहदेवीगणः, पुं, (सहदेवीनां गणः ।) प्रति- ष्ठायां देवस्नानार्थमोषधिसमूहः । यथा, -- “पञ्चगव्यैः स्नापयेच्च सहदेव्यादिभिस्ततः । सहदेवी बला चैव शतमूली शतावरी ॥ कुमारी च गुडूची च सिंही व्याघ्री तथैव च । या ओषधीति मन्त्रेण स्नानमोषध्निमङ्गलैः ॥” इति गारुडे ४८ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सहदेवीगणः&oldid=175604" इत्यस्माद् प्रतिप्राप्तम्