सहमरणम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहमरणम्, क्ली, (सह पत्या मरणम् ।) मृत- स्वामिसहितज्वलच्चितारोहण-पूर्ब्बकमरणम् । यथा । “अथ सहानुगमनम् । अङ्गिराः । ‘मृते भर्त्तरि या नारी समारोहेद्धुताशनम् । सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥ तिस्रः कोट्योऽर्द्धकोटी च यानि लोमानि मानवे । तावन्त्यब्दानि सा स्वर्गे भर्त्तारं यानुगच्छति ॥ व्यालग्राही यथा व्यालं बलादुद्धरते विलात् । तद्वद्भर्त्तारमादाय तेनैव सह मोदते ॥ मातृकं पैतृकञ्चैव यत्र कन्या प्रदीयते । पुनाति त्रिकुलं नारी भर्त्तारं यानुगच्छति ॥ तत्र सा भर्त्तृपरमा परा परमलालसा । क्रीडते पतिना सार्द्धं यावदिन्द्राश्चतुर्द्दश ॥’ भर्त्तृपरमा भर्त्ता परमो यस्याः सा तथा । परा परमलालसेत्यत्र स्तूयमानाप्सरोगणैरिति व्यासेन पठितम् । ‘ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वापि यो नरः । तं वै पुनाति सा नारी इत्याङ्गिरसभाषितम् ॥ साध्वीनामेव नारीणामग्निप्रपतनादृते । नान्यो धर्म्मो हि विज्ञेयो मृते भर्त्तरि कर्हिचित् ॥’ या नारीत्युपादानात् सहमरणाभावपक्षोऽपि सूचितः । नान्यो धर्म्म इति तु सहमरणस्तुत्य- र्थम् । तथा च विष्णुः । मृते भर्त्तरि ब्रह्मचर्य्यं तदन्वारोहणं वा इति । ब्रह्मचर्य्य मैथुनवर्ज्जनं ताम्बृलादिवर्ज्जनञ्च । यथा प्रचेताः । ‘ताम्बूलाभ्यञ्जनञ्चैव कांस्यपात्रे च भोजनम् । यतिश्च ब्रह्मचारी च विधवा च विवर्ज्जयेत् ॥’ अभ्यञ्जनमायुर्व्वदोक्तं पारिभाषिकम् । यथा, -- ‘मूर्द्ध्नि दत्तं यदा तैलं भवेत् सर्व्वाङ्गसङ्गतम् । स्रोताभिस्तर्पयेद्बाहू अभ्यङ्गः स उदाहृतः ॥ तिथ्यन्तरमृतायान्तु पृथक् श्राद्धं न विद्यते ॥” इति चतुर्भुजभट्टाचार्य्यधृतयमवचनाद्भिन्नतिथि- मृताया अपि पत्युर्म्मृततिथौ श्राद्धमिति हरि- दासतर्काचार्य्याः । तन्न अस्य वचनस्यामूलत्वात् समूलत्वेऽपि श्राद्धपदं पिण्डपरम् । एकोद्दिष्टं मृताहनीति यमवचनविरोधात् ।” इति शुद्धि- तत्त्वम् ॥ * ॥ अन्यत् ब्रह्मवैवर्त्ते गणपतिखण्डे २८ अध्याये । मार्कण्डेयपुराणे दमचरिताध्याये । विष्णुपुराणे ५ अंशे ३८ अध्याये । कल्किपुराणे ३३ अध्याये च द्रष्टव्यम् ॥
