सामग्री पर जाएँ

सहस्रनेत्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहस्रनेत्रः, पुं, (सहस्रं नेत्राणि यस्य ।) इन्द्रः । इति हेमचन्द्रः ॥ (यथा, रघुः । ६ । २३ । “क्रियाप्रबन्धादयमध्वराणा- मजस्रमाहूतसहस्रनेत्रः । शच्याश्लिरं पाण्डुकपोललम्बान् मन्दारशून्यानलकांश्चकार ॥” वाच्यलिङ्गेऽपि दृश्यते । यथा, महाभारते । १ । २१२ । २७ । “एवं चतुर्म्मुखः स्थाणुर्महादेवोऽभवत्पुरा । तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥”) विष्णुः । इति श्रीभागवतम् ॥

"https://sa.wiktionary.org/w/index.php?title=सहस्रनेत्रः&oldid=175653" इत्यस्माद् प्रतिप्राप्तम्