सामग्री पर जाएँ

सहस्रपत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहस्रपत्रम्, क्ली, (सहस्राणि पत्राणि यस्य ।) पद्मम् । इत्यमरः । १ । १० । ४३ ॥ (यथा, रघुः । ७ । ११ । “तासां मुखैरासवगन्धगर्भै- र्व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सहस्रपत्रम्&oldid=175655" इत्यस्माद् प्रतिप्राप्तम्