सामग्री पर जाएँ

सहस्रभुजा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहस्रभुजा, स्त्री, (सहसं भुजा यस्याः ।) महा- लक्ष्मीः । सा च महिषासुरमर्द्दिनी । यथा, -- “श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला । रक्तमध्या रक्तदेहा नीलजङ्घोरुतालुका ॥ चित्रानुलेपना कान्ता सर्व्वेसौभाग्यदायिनी । अष्टादशभुजा पूज्या सा सहस्रभुजा रणे ॥ आयुधान्यत्र रक्षन्ति दक्षिणाधःकरक्रमात् । अक्षमाला च मुषलं बाणासिकुलिशं गदाम् ॥ चक्रं त्रिशूलं परशुं शङ्खघण्टे च पाशकम् । शक्तिं दण्डं चर्म्म चापं पानपात्रं कमण्डलुम् ॥ अलङ्कृतभुजा त्वेभिरायुधैः परमेश्वरी । स्मर्त्तव्या स्तुतिकालादौ महिषासुरमर्द्दिनी ॥ इत्येषा राजसी मूर्त्तिः सर्व्वदेवमयी मता । यां ध्यात्वा मानवो नित्यं लभते हितमात्मनः ॥” इति मार्कण्डेयपुराणीयदेवीमाहात्स्यपाठक्रमः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहस्रभुजा/ सहस्र--भुजा f. N. of दुर्गाMW.

"https://sa.wiktionary.org/w/index.php?title=सहस्रभुजा&oldid=219313" इत्यस्माद् प्रतिप्राप्तम्