सामग्री पर जाएँ

सहस्राक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहस्राक्षः, पुं, (सहस्रमक्षीण्यस्येति । “बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ।” ५ । ४ । ११३ । इति षच् ।) इन्द्रः । इत्यमरः । १ । १ । ४३ ॥ (यथा, महाभारते । १ । २५ । ८ । “नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ! ॥”) विष्णुः । यथा, -- “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।” इति पुरुषसूक्तम् ॥ (पीठस्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ६५ । “उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महो- त्पला ॥”)

"https://sa.wiktionary.org/w/index.php?title=सहस्राक्षः&oldid=175689" इत्यस्माद् प्रतिप्राप्तम्