सहस्रारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहस्रारः, पुं, क्ली, (सहस्रं आराणि कोणा यस्य ।) शिरोऽवस्थिताधोमुखसहस्रदलकमलम् । यथा, “सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते । अ-क-थादित्रिरेखात्म-ह-ल-क्ष-त्रयभूषिते ॥ तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् । एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ॥” इति तन्त्रसारोक्तान्तर्म्मातृकान्यासः ॥ (सहस्रं अराणि यस्येति । बहुचक्राङ्गविशिष्टे, त्रि । यथा, देवीभागवते । ६ । ५ । १८ । “चक्रं सुमोच वेगेन सहस्रारं सुदर्शनम् ॥”)
