सामग्री पर जाएँ

सहाचरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहाचरः, पुं, (सह आचरतीति । आ + चर + अच् ।) पीतझिण्टी । इति शब्दरत्नावली ॥ (अस्य पर्य्यायो यथा, -- “सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका । सहाचरः सहचरः स च भिन्द्यपि कथ्यते ॥” इति भावप्रकाश्य पूर्व्वखण्डे प्रथमे भागे ॥ यथा, सुश्रुते चिकित्सितस्थाने । ३७ । “सहाचरवरीविश्वाकाकनाशाविदारिभिः ॥” यथाच । “वासानिम्बपटोलकेतकीबलाकुष्माण्डकेन्दीवरी- वर्षाभूकुटजाश्वगन्धसहिते द्वे पूतिगन्धामृते ॥ मांसं नागबलासहाचरपुरैर्हिङ्ग्वार्द्रके नित्यशो ग्राह्यास्तत्क्षणमेव न द्बिगुणिता ये चेक्षुजाता घनाः ॥” इति वैद्यकपरिभाषायाम् ॥) सहचरश्च ॥

"https://sa.wiktionary.org/w/index.php?title=सहाचरः&oldid=175702" इत्यस्माद् प्रतिप्राप्तम्