सहिष्णुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहिष्णुः, त्रि, (सहते इति । सह + “अलंकृञ्- निराकृञिति ।” ३ । २ । १३६ । इति इष्णुच् ।) सहनशीलः । तत्पर्य्यायः । सहनः २ क्षन्ता ३ तितिक्षुः ४ क्षमिता ५ क्षमी ६ । इत्यमरः । ३ । १ । ३१ ॥ (यथा, किराते । २ । ५० । “अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः । सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥”)
