सहोक्तिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सहोक्तिः, स्त्री, (सह उक्तिः ।) अलङ्कारविशेषः । यथा, -- “सहोक्तिः सहभावश्चेत् भासते जनरञ्जनः । दिगन्तमगमत्तस्य कीर्त्तिः प्रत्यर्थिभिः सह ॥” इति चन्द्रालोकः ॥ (अस्य लक्षणोदाहरणानि यथा, साहित्य- दर्पणे । १० । ७०१ । “सहार्थस्य बलादेकं यत्र स्याद्बाचकं द्वयोः । सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ॥” अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्य्य- कारणपौर्वापर्य्यविपर्य्ययरूपा च । अभेदाध्यव- सायमूलापि श्लेषभित्तिका अन्यथा च । क्रमे- णोदाहरणम् । “सहाधरदलेनास्या यौवने रागभाक् प्रियः ॥” अत्र रागपदे श्लेषः । “सह कुमुदकदम्बैः काममुल्लासयन्तः सह घनतिमिरोघैर्घैर्य्यमुत्सारयन्तः । सह सरसिजषण्डैः स्वान्तमामीलयन्तः प्रतिदिशममृतांशोरंशवः सञ्चरन्ति ॥” इदं मम । अत्रोल्लासादीनां सम्बन्धिभेदादेव भेदो न तु श्लिष्टतया । “सममेव नराधिपेन सा गुरुसम्मोहविलुप्तचेतना । अगमत्सह तैलबिन्दुना तनुदीपार्च्चिरिव क्षितेस्तलम् ॥” इयञ्च मालयापि सम्भवति । तथोदाहृते सह कुमुदकदम्बैरित्यादौ । “लक्ष्मणेन समं रामः काननं गहनं ययौ ।” इत्यादौ चातिशयोक्तिमूलत्वाभावान्नायमल- ङ्कारः ॥ * ॥)
