सामग्री पर जाएँ

सहोदरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सहोदरः, पुं, (उदरेण सह वर्त्तते इति । सह समानं उदरं यस्येति वा ।) एकमातृगर्भ- जातभ्राता । तत्पर्य्यायः । सहजः २ सोदरः ३ भ्राता ४ सगर्भः ५ समानोदर्य्यः ६ सोदर्य्यः ७ । इति जटाधरः ॥ (यथा, मनुः । ९ । १९२ । “जनन्यां संस्थितायान्तु समं सर्व्वे सहोदराः । भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सहोदरः&oldid=175736" इत्यस्माद् प्रतिप्राप्तम्