सह्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सह्यः, पुं, पर्व्वतविशेषः । इति मेदिनी ॥ (यथा, रघुः । ४ । ५२ । “असह्यविक्रमः सह्यं दूरात् मुक्तमुदन्वता । नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥”) स तु पुनाख्यदेशस्य उत्तरपश्चिमदिशि वर्त्तते ॥
सह्यः, त्रि, (सोढुं शक्यः । सह + “शकि- सहोश्च ।” ३ । १ । ९९ । इति यत् ।) सोढव्यः । सहनीयः । इति मेदिनी ॥ (यथा, मार्कण्डेये । १०६ । ५६ । “सह्यं भवतु ते तेजो भूनानां भूतभावन ! ॥”)
