सामग्री पर जाएँ

सांख्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सांख्यम्, क्ली, (संख्या सम्यग्ज्ञानं सा अस्त्यत्रेति । संख्या + अण् ।) सम्यक् ख्यायते प्रकाश्यते वस्तुतत्त्वमनयेति संख्या सम्यक् ज्ञानं तस्यां प्रकाशमानमात्मतत्त्वं सांख्यम् । इति श्रीभगवद् गीताटीकायां श्रीधरस्वामी ॥ षड्दर्शनान्तर्गत- दर्शनशास्त्रविशेषः । तत्पर्य्यायः । कापिलम् २ । इति हेमचन्द्रः ॥ यथा, -- “पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥” इति श्रीभागवते । १ । ३ । १० ॥ करुणया सृष्टिः सृष्ट्या कारुण्यमिति तस्माद- चेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य मह- दादिरूपेण परिणामः पुरुषार्थप्रयुक्तप्रधान- पुरुषसंयोगनिमित्तः । यथा । निर्व्व्यापारस्या- व्यायस्कसन्निधानेन लोहितस्य व्यापारः । तथा निर्व्व्यापारस्य पुरुषस्य सन्निधानेन प्रधानव्या- पारो युज्यते । प्रकृतिपुरुषसम्बन्धश्च पङ्ग्वन्धवत् परस्परापेक्षानिबन्धनः । प्रकृतिर्हि भोग्यतया भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि भेदाग्रहा- द्बुद्धिच्छाया पत्न्या तद्गतं दुःखत्रयं वारयमाणः कैवल्यमपेक्षते । तत्प्रकृतिपुरुषविवेकनिबन्धनः । न च तदन्तरेण युक्तमिति कैवल्यार्थं पुरुषः प्रधानमपेक्षते । यथा स्वलु कौचित् पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ देवकृतादुपप्लवात् परि- त्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्रमन्तौ भयाकुलौ दैववशात् संयोगमुपगच्छेताम् । तत्र चान्धेन पङ्गुः स्कन्धमारोपितः पङ्गुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राप्नोति पङ्गुरपि स्कन्धाधिरूढः तथा परस्परापेक्षप्रधानपुरुष- निबन्धनः सङ्गः पुरुषस्य दर्शनार्थं कैवल्यार्थतया प्रधानस्य पङ्ग्वन्धवत् उभयोरपि सम्बन्धस्तत्कृतः सर्गः इति । ननु पुरुषार्थनिबन्धना भवतु प्रकृतेः प्रवृत्तिः निवृत्तिस्तु कथमुपपद्यत इति चेदुच्यते यथा भर्त्रा दृष्टदोषा स्वैरिणी पुनर्भर्त्तारं नापैति यथा वा कृतप्रयोजना नर्त्तकी नर्त्तने तथा प्रकृतिरपि यथोक्तं रङ्गस्य दर्शयित्वा निवर्त्तते नर्त्तकी यथा नृत्यात् पुरुषस्य तथानन्दं प्रकाश्य निवर्त्तते प्रकृतिरिति । तदर्थं निरीश्वरसांख्य- शास्त्रप्रवर्त्तककपिलानुसारिणां मतमुपन्यस्तम् । इति माधवाचार्य्यकृतसर्व्वदर्शनसंग्रहे सांख्य- दर्शनम् ॥ अस्य चत्वारः अध्यायाः । तत्र प्रकृतिपुरुषयोरुभयोः सृष्टिकर्त्तृत्वं अन्धपङ्गु- न्यायेन स्थापितम् । तत्त्वानां संख्यानञ्च कृतम् । इति केचित् ॥

"https://sa.wiktionary.org/w/index.php?title=सांख्यम्&oldid=175746" इत्यस्माद् प्रतिप्राप्तम्