सांदृष्टिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांदृष्टिकम्, क्ली, (संदृष्टौ प्रत्यक्षे भवम् । संदृष्टि + ठञ् ।) सद्यःफलम् । इत्यमरः ॥ दृष्टिपरिक- ल्पनान्यायः । यथा । दौहित्रान्तस्वसन्ताना- भावे पितुरधिकारवत् दौहित्रान्तपितृसन्ताना- भावे पितामहाधिकारस्य सांदृष्टिकन्यायसिद्ध- त्वाच्च । यथा पित्रभावे माता तथा पितामहा- भावे पितामहीति सांदृष्टिकन्यायेन पितामह्य- धिकारस्य सिद्धत्वाच्च । इति श्रीकृष्णतर्कालङ्कार- कृतक्रमसंग्रहः ॥
