सांवत्सरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांवत्सरः, पुं, (संवत्सरं तज्ज्ञानोपयोगि शास्त्रं वेत्ति अधीते वा । संवत्सर + अण् ।) गणकः । इत्यमरः । २ । ८ । १४ ॥ (यथा, बृहत्संहिता- याम् । २ । १० -- ११ । “मुहूर्त्तं तिथिनक्षत्रमृतवश्चायने तथा । सर्व्वाण्येवाकुलानि स्युर्न स्यात् सांवत्सरो यदि ॥ तस्माद्राज्ञाभिगन्तव्यो विद्बान् सांवत्सरो- ऽग्रणीः । जयं यशःश्रियं भोगान् श्रेयश्च समभीप्सता ॥” अस्य लक्षणादिकं तत्रैव २ अध्याये विशेषतो द्रष्टव्यम् ॥ * ॥ फले, पर्व्वणि च क्ली । इति पाणिनिः । ४ । ३ । १६ ॥ संवत्सरस्येदमिति । अण् ।) संवत्सरसम्बन्धिनि, त्रि ॥ (यथा, हरिवंशे । १४० । ३ । “स सांवत्सरदीक्षायां दीक्षितः षट्पुरालये । आवर्त्ताया शुभे तीरे सुनद्या मुनिजुष्टया ॥”)
