सांवत्सरिक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांवत्सरिकः, त्रि, (संवत्सर + “कालात् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।) संवत्सरे भवः । संव- दश्यां क्रियते ॥ * ॥ न च पाकस्याङ्गत्वेन प्रधानतिथिकर्त्तव्यतानियम इति वाच्यम् । “व्रतोपवासनियमे घटिकैका यदा भवेत् । सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकी ॥” इति वचनेन मुहूर्त्तमात्रलाभेऽपि कर्त्तव्यतोप- देशात् तदानीं पाके तदसम्भवात् । एवमुदी- च्याङ्गशेषभोजनेऽपि न तन्नियमः । इति श्राद्ध- तत्त्वम् ॥ (गणके, पुं, । यथा, बृहत्संहितायाम् । २ । १२ । “नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता । चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांवत्सरिक¦ त्रि॰ संवत्सरे भवः ठञ्। प्रतिवर्षं मृताहकर्तव्येश्राद्धभेदे गोभिलः
“अत ऊर्द्ध्वं संवत्सरे संवत्सरे प्रेता-[Page5270-a+ 38] यान्नं दद्यात् यस्मिन्नहनि प्रेतः स्यादिवि। अत ऊर्द्ध्वंसपिण्डीकरणान्वश्राद्धनिभित्तादाद्यसंवत्सरादूर्द्ध्वं संव-त्सर सवत्सरे प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्नहनिमृताय दद्यात्। व्याघ्रः
“प्रतिसंवत्सरञ्चैवमेकोद्दिष्टंमृताहनि”। एतेन सपिण्डीकरणापकर्षे आद्यसंवत्सरे-ऽपि मृताहे श्राद्धान्तरं कर्त्तव्यमिति मैथिलोक्तं हे-यम्। व्यक्तमाह हेमाद्रिधृतवचनम्”
“पूर्णे संवत्सरेश्राद्धं षोडशं परिकीर्त्तितम्। तेनैव च सपिण्डत्वंतेनैवाव्दिकमिष्यते” अत्र पर्णसंवत्सरक्रियमाणश्राद्धाद्यथोभयनिर्वाहस्तथापकृष्टसपिण्डीकरणश्राद्धादप्युभयनिर्वाहो न पूर्णसंवत्सरे आव्दिकान्तरम्। एव पञ्चदशश्राद्धेऽप्युन्नेयम्। मत्स्यपु॰
“ततः प्रभृतिसक्रान्तावुप-रागादिपवेसु। त्रि पिण्डमाचरेत् श्राद्धमेको दष्टं मृता-हनि”। ततः प्रेतत्वपरिहारात्, त्रिपिण्डं त्रैपुरुषम्। निरुपपदमृताहशब्दः मृतसम्बन्धिमासपक्षतिथिविशेष-परः। उपपदात्तु क्वचित्तिथिविशेषमात्रपरः। यथामृताहे प्रतिमासं कुर्य्यादित्यादौ। शङ्खः
“सपिण्डीक-रणादूर्द्ध्वं यत्र यत्र प्रदीयते। तत्र तत्र त्रयं कुर्य्यात्वर्जयित्वा मृताहनि। अमावास्या क्षयो यस्य प्रेतपक्षेऽथ वा पुनः। सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्वर्णोविधिः” श्रा॰ त॰। अधिकम् एकोद्दिष्टशब्दे
१५
२१ पृ॰पार्षणशब्दे
४३
१८ पृ॰ च दृश्यम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांवत्सरिक¦ mfn. (-कः-की-कं) Yearly, annual, relating to a year, produced in a year, &c. E. संवत्सर a year, and ठञ् aff.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांवत्सरिक mfn. yearly , annual , relating to a year , produced in a year etc. (with बलिm. " annual revenue " ; with रिणn. " a debt payable in a year ") AitBr. etc.
सांवत्सरिक mfn. relating to an annual sacrifice La1t2y.
सांवत्सरिक m. an astrologer Pan5cat.
