सांशयिकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सांशयिकः, त्रि, (संशयमापन्नः । संशय + “संशयमापन्नः ।” ५ । १ । ७३ । इति ठञ् ।) संशययुक्तः । तत्पर्य्यायः । संशयापन्नमानसः २ । इत्यमरः । ३ । १ । ५ ॥ सन्दिहानः ३ । इति जटाधरः ॥ द्वे संशयविषये स्थाण्वादौ । संशय- मापन्नः सांशयिकः ष्णिकः संशयमापन्नं मानसं यत्र स्थाण्वादौ स तथा । संशयमापन्नं मानसं यस्य स तथेति षष्ठ्यन्तपदार्थत्वे संशयितरि पुरुषादावप्येतच्छब्दद्वयप्रवृत्तिः स्यादिति भरतः ॥ (संशयविषयकः । यथा, मार्कण्डेये । १० । ४५ । “तद्ब्रूहि त्वं महाभाग यत् ते सांशयिकं हृदि ॥”)
