साक्तुकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साक्तुकः, पुं, (सक्तुषु साधुः । सक्तु + “गुडादिभ्य- ष्ठञ् ।” ४ । ४ । १०३ । इति ठञ् ।) यवः । इति सिद्धान्तकौमुदी ॥ (सक्तूनां समूहः । सक्तु + “अचित्तहस्तिधेनोष्ठक् ।” ४ । २ । ४७ । इति ठक् ।) सक्तुसमूहे, क्ली । सक्तुसम्बन्धिनि, त्रि ॥ (सक्तवे प्रभवतीति । “तस्मै प्रभवति संतापादिभ्यः ।” ५ । १ । १०१ । इति ठञ् । सक्तुसमर्थे च त्रि ॥)
