सामग्री पर जाएँ

साङ्ख्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साङ्ख्यः, पुं, कपिलमुनिकृतदर्शनशास्त्रविशेषः । तत्पर्य्यायः । कापिलः २ । इति हेमचन्द्रः ॥ तथा च । “साङ्ख्यं कपिलमुनिना प्रोक्तं संसारविमुक्तिकारणं हि । यत्रैताः सप्ततिरार्य्या भाष्यं चात्र गौडपादकृतम् ॥ एतत् पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ । आसुरिरपि पञ्चशिखाय तेन च बहुघा कृतं तन्त्रम् ॥ शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्य्याभिः । संक्षिप्तमार्य्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ सप्तत्यां किल येऽर्था- स्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य । आख्यायिका विरहिताः परवादविवर्ज्जिताश्चापि ॥” इति साङ्ख्यप्रवचनभाष्यम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साङ्ख्य पुं।

साङ्ख्यशास्त्रज्ञः

समानार्थक:साङ्ख्य,कापिल

2।7।6।6।3

धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः। दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ॥ मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि। वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि। नैयायिकस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः। चार्वाकलौकायतिकौ सत्कार्ये सांख्यकापिलौ।

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साङ्ख्य¦ mfn. (-ङ्ख्यः-ङ्ख्यी-ङ्ख्यं)
1. Numeral, relating to number.
2. Deliberating, reasoning.
3. Rational, discriminative. m. (-ङ्ख्यः)
1. The Sa4nk4hya system of philosophy, ascribed originally to the Muni KAPILA, and so called as enumera- ting twenty-five Tatwas or true principles; its object is to effect the final liberation of the twenty-fifth Tatwa, viz. [Page779-a+ 60] Purusha, (the soul,) from the fetters of the phenomenal crea- tion by conveying a correct knowledge of the twenty-four other Tatwas; the Sa4nk4hya system agrees with Ve4da4ntism in being synthetical, so differing from the analytical Nya4ya; its great point of divergence from the Ve4da4nta is its maintaining two principles, which the Ve4da4nta denies.
2. A follower of the Sa4nk4hya system of philosophy. E. सङ्ख्या number, &c., अण् aff.

"https://sa.wiktionary.org/w/index.php?title=साङ्ख्य&oldid=221602" इत्यस्माद् प्रतिप्राप्तम्