साङ्ख्ययोग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साङ्ख्ययोगः, पुं, (साङ्ख्योक्तो योगः ।) ज्ञानयोगः । स च ब्रह्मविद्या । यथा, -- “द्वितीये शोकसन्तप्तमर्ज्जुनं ब्रह्मविद्यया । प्रतिबोध्य हरिश्चक्रे स्थितप्रज्ञस्य लक्षणम् ॥” इति गीताटीकायां श्रीधरस्वामी । २ । १ ॥ तद्योगो यथा, -- श्रीभगवानुवाच । “अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्व्वे वयमतः परम् ॥ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ मात्रास्पर्शास्तु कौन्तेय ! शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तां तितिक्षस्व भारत ॥ यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः । अविनाशि तु तद्विद्धि येन सर्व्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित् कर्त्तुमर्हति ॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्मात् पुद्धस्व भारत ॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ ! कं घातयति हन्ति कम् ॥ वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्व्वगतः स्थाणुरचलोऽयं सनातनः ॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्य्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो ! नैनं शोचितुमर्हसि ॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि ॥” इत्यादि श्रीभगवद्गीतायां साङ्ख्ययोगे । २ । ११ -- ३० ॥ * ॥
