सात्त्विकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सात्त्विकः, पुं, (सत्त्वात् सत्त्वगुणप्रधाणात् विष्णो- र्भूतः । सत्त्व + ठञ् ।) ब्रह्मा । (सात्त्वं सत्त्व- गुणोऽस्यास्तीति । ठन् । विष्णुः । इति महा- भारतम् । १३ । १४९ । १०६ ॥) त्रिविध- भावान्तर्गतभावविशेषः । इति हेमचन्द्रः ॥ तस्य लक्षणं यथा, -- “सत्त्वोत्कटे मनसि ये प्रभवन्ति भावा- स्ते सात्त्विका इति विदुर्म्मुनिपुङ्गवास्ते ।” इति सर्व्वानन्दः ॥ ते च यथा, -- “स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्णमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥” प्रलयो मूर्च्छा । इति भरतः ॥
सात्त्विकः, त्रि, (सत्त्वेन निर्वृत्तः । तेन निर्वृत्त- मिति ठञ् ।) सत्त्वगुणनिष्पादितः । इत्यमरः । १ । ७ । १६ ॥ सत्त्वं मनोगुण आशयो वा तेन निष्पादितः सात्त्विकः स्वेदादिः । सत्त्वशब्दात् ढघे कादिति ष्णिकः । इति भरतः ॥ * ॥ सत्त्व- गुणयुक्तः । तद्विवरणं यथा, गीतायाम् । १७ । ४ । “यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥” सात्त्विकयज्ञो यथा, गीतायाम् । १७ । ११ । “अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥” सात्त्विकतपो यथा, तत्रैव । १७ । १७ । “श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥” सात्त्विकदानं यथा, तत्रैव । १७ । २० । “दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥” सात्त्विकयोगो यथा, तत्रैव । १८ । ९ । “कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन । सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥” सात्त्विकज्ञानं यथा, तत्रैव । १८ । २० । “सर्व्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्वि- कम् ॥” सात्त्विककर्म्म यथा, तत्रैव । १८ । २३ । “नियतं सङ्गरहितमरागद्बेषतः कृतम् । अफलप्रेय्सुना कर्म्म यत्तत् सात्त्विकमुच्यते ॥” सात्त्विकबुद्धिर्यथा, तत्रैव । १८ । ३० । “प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये । बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥” सात्त्विकी धृतिर्यथा, तत्रैव । १८ । ३३ । “धृत्या यया घारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ ! सात्त्विकी ॥” सात्त्विकसुखं यथा, तत्रैव । १८ । ३७ । “यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥” सात्त्विकपुराणानि यथा, -- “वैष्णवं नारदीयञ्च तथा भागवतं शुभम् । गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने । सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥” सात्त्विकस्मृतयो यथा, -- “वाशिष्ठञ्चैव हारीतं व्यासं पाराशरं तथा । भारद्वाजं काश्यपञ्च सात्त्विका मुक्तिदाः शुभाः ॥” इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥ सात्त्विकप्रियाहारा यथा, -- “आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥” इति श्रीभगवद्गीतायाम् । १७ । ८ ॥ सात्त्विककर्त्ता कर्त्तृशब्दे सात्त्विकाहार आहार- शब्दे च द्रष्टव्यः ॥
