सात्यकिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सात्यकिः, पुं, (सत्यकस्यापत्यं पुमानिति । इञ् ।) वृष्णिवंशीयसत्यकपुत्त्रः । स तु श्रीकृष्णस्य सारथिः । तत्पर्य्यायः । शैनेयः २ शिनेर्नप्ता ३ युयुधानः ४ । इति त्रिकाण्डशेषः ॥ योधः ५ । इति जटाधरः ॥ (अयं हि अर्ज्जुनस्य शिष्य आसीत् भारतयुद्धे युधिष्ठिरपक्षमाश्रित्य तुमुलं युद्धं विधाय च हतेऽपि निखिलबले वासुदेवेन पाण्डवैश्च सह जीवित आसीत् । तथाहि महा- भारते अश्वत्थामवाक्ये । १० । ९ । ४७ । “सप्त पाण्डवतः शेषा धार्त्तराष्ट्रास्त्रयो वयम् । ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः । अहञ्च कृतवर्म्मा च कृपः शारद्बतस्तथा ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सात्यकिः [sātyakiḥ], N. of a Yādava warrior, who acted as charioteer to Kṛiṣṇa, and took part with the Pāṇḍavas in the great war.
