सादितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सादितः, त्रि, (सद + णिच् + क्तः ।) विषादितः । (यथा, रघुः । ७ । ४४ । “यैः सादिता लक्षितपूर्ब्बकेतून् तानेव सामर्षतया निजघ्नुः ॥”) शरणप्रापितः । गमितः । इति ञ्यन्तसदधातोः क्तप्रत्ययेन निष्पन्नः ॥
