सादृश्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सादृश्यम्, क्ली, (सदृशस्य भावः । सदृश + ष्यञ् ।) सदृशत्वम् । तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्वम् । यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादि- मत्त्वं मुखे चन्द्रसादृश्यम् । इति सिद्धान्तमुक्ता- वली ॥ * ॥ अथ सादृश्यानि । वेण्याः सर्पः १ भ्रमरश्रेणिः २ । केशपाशस्य चामरः १ मयूर- पुच्छः २ । धम्मिल्लस्य विधुन्तुदः १ अन्धकारः २ । सीमन्तस्य मेघः १ पन्थाः २ दण्डः ३ । लला- टस्य अष्टमीचन्द्रः १ फलकम् २ । कपोलस्य चन्द्रः १ मुकुरस्थलम् २ । भ्रुवोः खड्गः १ धनुर्यष्टिः २ रेखा ३ पल्लवः ४ वल्लिः ५ । दृशोः चकोरचक्षुः १ हरिणचक्षुः २ मदिरा ३ खञ्जनः ४ अञ्जनम् ५ कुमुदम् ६ नीलपद्मम् ७ प्रोष्ठीमत्स्यः ८ । कर्णस्य दोला १ पाशः २ । नासायाः वंशः १ केतकीपुष्यकण्टकः २ अधो- मुखतूणीरः ३ चञ्चुः ४ तिलपुष्पम् ५ दण्डः ६ । अधरस्य नवपल्लवम् १ विम्बफलम् २ प्रबालः ३ । दन्तानाम् मुक्ताश्रेणिः १ कुन्दपुष्पम् २ दाडिम- बीजम् ३ हीरकम् ४ । स्मितस्य ज्योत्स्ना १ पुष्पम् २ पीयूषम् ३ । श्वासस्य पद्मगन्धः १ ऋतोः मलयवायुः १ मद्यम् २ उन्मादरोगः ३ । विरहिणं प्रति यमः १ अग्निः २ विषम् ३ सर्पः ४ । ग्रीष्मऋतोः अग्निः १ विरहः २ विरहिणी- निश्वासः ३ सर्पनिश्वासः ४ । वर्षाऋतोः रात्रिः १ समुद्रः २ गगनम् ३ नारायणः ४ । शरदृतोः काशपुष्पादिरूपचामरैरावतगजाः १ चन्द्रः २ । शीतऋतोः अपस्मारिव्यक्तिः १ राज्यशून्यराजा २ । शिशिरऋतोः राजागमनकालः १ । गुणिनः समुद्रः १ पर्व्वतः २ पृथिवी ३ मदनः ४ अश्विनौ ५ । सचिवस्य बृहस्पतिः १ । वाक्यस्य कोकिलशब्दः १ भ्रमरगुञ्जनम् २ वीणा- वाद्यम् ३ । इति कविकल्पलतायाम् ४ स्तवके ४ कुसुमम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सादृश्यम् [sādṛśyam], 1 Likeness, resemblance, similarity; सन्ति पुनर्नामधेयसादृश्यानि Ś.7; तवाक्षिसादृश्यमिव प्रयुञ्जते Ku.5.35; 7.16; R.1.4;15.67.
A likeness, a portrait, an image; मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती Me.87.
