साधकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साधकः, पुं, (साध्यति निष्पादयति कार्य्यमिति । साध + ण्वुल् ।) साधनकर्त्ता । निष्पादकः । तस्य लक्षणं यथा, -- “अतः परं प्रवक्ष्यामि साधकानान्तु लक्षणम् । धर्म्मशीलास्तपोयुक्ताः सत्यवादिजितेन्द्रियाः । मात्स्यर्य्येण परित्यक्ताः सर्व्वसत्त्वहिते रताः ॥ कर्म्मशीलास्तथोत्साहा मर्त्त्यलोकेऽजुगुप्सकाः । परस्परसुसन्तुष्टानुकूलाः साधकस्य तु । ईदृशैः साधनं कुर्य्यात् सुसहायैः सहैव तु ॥” इति देवीपुराणे नन्दामाहात्म्यसमाप्ताध्यायः ॥ अपि च । “चतुर्धा साधको ज्ञेयो मृदुर्मध्याधिमात्रकः । अधिमात्रतमः श्रेष्ठो भवाब्धौ लङ्घनक्षमः ॥ मन्दोत्साही सुसंमूढो व्याधिस्थो गुरुदूषकः । लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः ॥ चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः । मन्दाचारो मन्दवीर्य्यो ज्ञातव्यो मृदुना नरः ॥ द्वादशाब्दे भवेत् सिद्धिरेतस्य यत्नतः परम् । मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम् ॥ १ समबुद्धिः क्षमायुक्तः पुण्यकाङ्क्षी प्रियंवदः । मध्यस्थः सर्व्वकार्य्येषु सामान्यः स्यान्न संशयः । एतज्ज्ञात्वैव गुरुभिर्दीयते युक्तितो लयः ॥ २ ॥ स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्य्यवानपि । महाशयो दयायुक्तः क्षमावान् वीर्य्यवानपि ॥ शूरो लयश्च श्रद्धावान् गुरुपादाब्जपूजकः । योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः ॥ एतस्य सिद्धिः षड्वर्षैर्भवेदभ्यासयोगतः । एतस्मै दीयते धीरैर्हठयोगस्य साधकः ॥ ३ ॥ महावीर्य्यान्वितोत्साही मनोज्ञः शौर्य्यवानपि । शास्त्रज्ञोऽभ्यासशीलश्च निर्म्ममश्च निराकुलः ॥ नवयौवनसम्पन्नो मिताहारी जितेन्द्रियः । निर्भयश्च शुचिर्दक्षो दाता सर्व्वजनाश्रयः ॥ अधिकारी स्थिरो धीमान् यथेच्छावस्थितः क्षमी । सुशीलो धर्म्मचारी च गुप्तचेष्टः प्रियंवदः ॥ शास्त्रविश्वाससम्पन्नो देवतागुरुपूजकः । जनसङ्गविरक्तश्च महाव्याधिविवर्ज्जितः ॥ अणिमाव्रतयोग्यश्च सर्व्वयोगस्य साधकः । त्रिभिः संवत्सरैः सिद्धिरेतस्य स्यान्न संशयः । सर्व्वयोगाधिकारी च नात्र कार्य्या विचा- रणा ॥” ४ ॥ इति शिवसंहिता ॥
