साधनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
साधनम्, क्ली, (साध + ल्युट् ।) करणकारक- विशेषः । तत्र तृतीया स्यात् । इति व्याकर- रणम् ॥ साध्यते कर्म्म निष्पाद्यतेऽनेनेति साध- नम् । इति दुर्गादासः ॥ (कारणम् । हेतुः । यथा, मनुः । ११ । २३८ । “औषधान्यगदो विद्या दैवी च विविधा स्थितिः । तपसव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥”) मारणम् । (यथा, किराते । १४ । १७ । “अथो शरस्तेन मदर्थमुज्झितः फलञ्च तस्य प्रतिकायसाधनम् । अविक्षते तत्र मयात्मसात् कृतेः कृतार्थता नन्वधिका चमूपतेः ॥”) मृतसंस्कारः । अग्निदानम् । गतिः । गमनम् । द्रव्यम् । धनम् । अर्थदापनम् । अर्थस्य धन- भूम्यादेर्द्दापनम् । निर्व्वर्त्तनम् । निष्पादनम् । (यथा, रघुः । ४ । १६ । “वार्षिकं सञ्जहारेन्द्रः धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्य्यायोद्यतकार्म्मुकौ ॥”) उपकरणम् । सामग्री । यथा युद्धोपकरणं हस्त्यश्वादिः । (यथा, ऋतुसंहारे । ६ । ३४ । “रम्यः प्रदोषसमयः स्फुटचन्द्रभासः पुंस्कोकिलुस्य विरुतं पवनः सुगन्धिः । मत्तालियूथविरुतं निशि शीधुपानं सर्व्वं हि साधनमिदं कुसुमायुधस्य ॥”) अनुव्रज्या । अनुगमनम् । इत्यमरभरतौ । ३ । ३ । ११९ ॥ सैन्यम् । सिद्धौषधिः । उपायः । इति मेदिनी ॥ यथा, -- “तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः । दुर्भगत्वं वृथा लोको वहते सति साधने ॥” इति तिथ्यादितत्त्वधृतमत्स्यपुराणवचनम् ॥ मेढ्रः । इति च मेदिनी ॥ मैत्रम् । उधः । सिद्धिः । इति धरणिः ॥ कारकः । प्रमाणम् । इति हेमचन्द्रः ॥ व्याप्यम् । यथा, -- “अनुमा त्वनुमानं स्यात् व्याप्यं लिङ्गञ्च साधनम् ।” इति त्रिकाण्डशेषः ॥ मोहनम् । जवः । इत्यजयः ॥ साधना । साधा इति भाषा । यथा, -- ब्रह्मोवाच । “शशाप पार्व्वती रुष्टा स्त्रीस्वभावाच्च चापलात् । सर्व्वेषां साधनेनैव क्षन्तुमर्हन्ति साधवः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे । १२ । ५१ ॥ मन्त्रसिद्धिकरणम् । यथा, -- “मत्स्यं मांसञ्च मद्यञ्च मुद्रा मैथुनमेव च । दिव्यानाञ्चैव वीराणां साधनं भवसाधनम् ॥” इति मुण्डमालातन्त्रम् ॥ ब्रह्मज्ञानसाधनन्तु नित्यानित्यवस्तुविवेकेहामुत्र- फलभोगविरागशमदमादिसम्पन्मुमुक्षुत्वम् । इति वेदान्तसारः ॥
