सामग्री पर जाएँ

साधारणधर्म्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साधारणधर्म्मः, पुं, (साधारणो धर्म्मः ।) चतुर्वर्ण- कर्त्तव्यकर्म्म । यथा, मानवे ९ अध्याये । “प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः । तस्मात्साधारणो धर्म्मः श्रुतौ पत्न्या सहोदितः ॥” अपि च । “अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः । दमः क्षमार्ज्जवं दानं सर्व्वेषां धर्म्मसाधनम् ॥” इति गारुडे । ९६ । ३० ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साधारणधर्म्म¦ पु॰ कर्म॰।
“अहिम्सा सत्यमस्तेयं शौचमि-न्द्रियनिग्रहः। दमः क्षमार्ज्जवं दानं धर्मं साधारणंविदुः” इत्युक्ते अहिंसादौ सर्ववर्णाश्रमतल्ये

१ धर्मे। न्यायाद्युक्ते

२ संशयहेतौ समानधर्मे च तथाहि रङ्गंरजतं नवेति संशये रङ्गरजतयोः सामिन्यधर्मश्चाकचिक्य-शुभ्रत्वादिर्हतुः।

३ प्रजासर्जनरूपे जन्तुमात्रधर्मे च
“प्रज-नार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः। तस्मात्साधारणोधर्मः श्रुतौ पत्न्या सहोदितः” मनुः। स चधर्मः सर्वेषां जन्त नां साधारण इति मानवा इत्युप-लक्षणम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

साधारणधर्म्म¦ m. (-र्म्मः) Common or universal duty, conduct to be obser- ved by all castes or orders, as humanity, &c. E. साधारण general, and धर्म्म merit, duty.

"https://sa.wiktionary.org/w/index.php?title=साधारणधर्म्म&oldid=222424" इत्यस्माद् प्रतिप्राप्तम्